पूर्वम्: ४।१।१४२
अनन्तरम्: ४।१।१४४
सूत्रम्
स्वसुश्छः॥
४।१।१४३
काशिका-वृत्तिः
स्वसुश् छः
४।१।१४३
स्वसृशब्दादपत्ये छन्H प्रत्ययो भवति। अणो ऽपवादः। स्वसुरपत्यं स्वस्रीयः।
न्यासः
स्वसुश्छः।
, ४।१।१४३
बाल-मनोरमा
स्वसुश्छः
११५०, ४।१।१४३
स्वसुश्छः। "अपत्ये" इति शेषः। स्वस्त्रीय इति। छस्य ईयादेशः, ऋकारस्य यण्।